शिव जी की पूजा विधि: सामग्री, मंत्र और संपूर्ण जानकारी
जाने शिव पूजन की सम्पूर्ण विधि, मंत्र और सामग्री। आज जो विधि आपको बताने जा रहा हूँ,
बहुत प्राचीन है। पहले के ऋषि मुनि इसी विधि अनुसार पूजा करते थे। आप भी इस विधि व
मंत्रो से भगवान शिव की पूजा अवश्य करके देखे।
पूजन सामग्री
- दूध, दही, घी, शहद, शक्कर
- पंचामृत (दूध, दही, घी, शहद, शक्कर को मिलाकर बनाएं)
- गंगा जल, आचमन जल
- गंधोदक (चंदन, केसर को घिसकर पीला द्रव्य बना लें)
- इत्र (परिमलद्रव्य), लाल कपड़ा
- मौली/ कलावा, वस्त्र (मौली के टुकड़े)
- सफेद या भगवा रंग का परना सवा दो मीटर
- जनेऊ (यज्ञोपवीत)
- अष्ट गंध
- अर्घ्य (जल में अष्ट गंध और फूल की पत्तियां मिलाकर बनाएं)
- फूल, फूल माला, फल, धतुरा
- धूप, अगरबती, रुई
- बिल्व पत्र, दूर्वा, शमी पत्र
- पान के पत्ते,
- सुपारी, लौंग, छोटी इलाइची
- नारियल
- धतूरे के पत्ते और फूल
- भांग, आक के पत्ते या फूल
- नवैद्य (मिठाई), दक्षिणा
मंत्र
ॐ नम: शिवाय
अन्य मंत्र
“ऊँ नमः शिवाय शंभो, शाबर मंत्र सिद्धि लायो, शिव सदा सहायो, दुख दर्द मिटायो, ॐ नमः शिवाय॥”
“हरी ॐ नमः शिवाय, शिव गुरु रामाय।”
मानसिक शुद्धिका मन्त्र
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ नलिनायतलोचनम्
अतिनीलघनश्यामं स्मरामि पुण्डरीकाक्षं तेन स्नातो भवाम्यहम् ॥
संकल्प
स्नान, सन्ध्या, दान, देवपूजन तथा किसी भी सत्कर्मके प्रारम्भमें संकल्प करना आवश्यक है । अन्यथा सभी कर्म विफल हो जाते हैं? हाथोंमें पवित्री धारण कर तथा आचमन आदिसे शुद्ध होकर दायें हाथमें केवल जल अथवा जल, अक्षत, पुष्प आदि लेकर निम्नलिखित संकल्प करे-
“ॐ विष्णवे नमः, ॐ विष्णवे नमः, ॐ विष्णवे नमः । ॐ अद्य ब्रह्मणोऽह्नि द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगे कलिप्रथमचरणे बौद्धावतारे भूर्लोके जम्बूद्वीपे भरतखण्डे भारतवर्षे….क्षेत्रे नगरे ग्रामे ….नाम संवत्सरे ४….मासे’ (शुक्ल/कृष्ण) पक्षे….तिथौ….वासरे’….गोत्र: शर्मा/वर्मा/गुप्तोऽहम् प्रातः (मध्याह्ने, सायं) सर्वकर्मसु शुद्ध्यर्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं
श्रीभगवत्प्रीत्यर्थं च अमुक कर्म करिष्ये ।”
शिव ध्यान मंत्र
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात् स्तुतममरगणैव्र्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
ध्यानार्थे अक्षतपुष्पाणि समर्पयामि ॐ शिवाय नमः ।
अर्थ
चाँदीके पर्वतके समान जिनकी श्वेत कान्ति है, जो सुन्दर चन्द्रमाको
आभूषण-रूपसे धारण करते हैं, रत्नमय अलङ्कारोंसे जिनका शरीर
उज्ज्वल है, जिनके हाथोंमें परशु, मृग, वर और अभय मुद्रा है, जो प्रसन्न
हैं, पद्मके आसनपर विराजमान हैं, देवतागण जिनके चारों ओर खड़े होकर
स्तुति करते हैं, जो बाघकी खाल पहनते हैं, जो विश्वके आदि जगत्की
उत्पत्तिके बीज और समस्त भयोंको हरनेवाले हैं, जिनके पाँच मुख और
तीन नेत्र हैं, उन महेश्वरका प्रतिदिन ध्यान करे।
आवाहन
आगच्छ भगवन् ! देव ! स्थाने चात्र स्थिरो भव ।
यावत् पूजां करिष्येऽहं तावत् त्वं संनिधौ भव ।।
श्रीभगवते साम्बशिवाय नमः । आवाहनार्थे पुष्पं समर्पयामि ।
(पुष्प चढ़ाये ।)
आसन
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् ।
इदं हेममयं दिव्यमासनं प्रतिगृह्यताम् ।।
श्रीभगवते साम्बशिवाय नमः । आसनार्थे बिल्वपत्रं समर्पयामि ।
(बिल्वपत्र दे ।)
पाद्य
गङ्गोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् ।।
श्रीभगवते साम्बशिवाय नमः । पादयोः पाद्यं समर्पयामि ।
(जल चढ़ाये ।)
अर्घ्य
गन्धपुष्पाक्षतैर्युक्तमर्घ्य सम्पादितं मया ।
गृहाण भगवन् शम्भो प्रसन्नो वरदो भव ।।
श्रीभगवते साम्बशिवाय नमः । हस्तयोः अर्घ्य समर्पयामि ।
(चन्दन, पुष्प, अक्षतयुक्त अर्घ्य समर्पण करे ।)
आचमन
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् ।
तोयमाचमनीयार्थं गृहाण परमेश्वर ।।
श्रीभगवते साम्बशिवाय नमः । आचमनीयं जलं समर्पयामि ।
(कर्पूरसे सुवासित शीतल जल चढ़ाये ।)
स्नान
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ।।
श्रीभगवते साम्बशिवाय नमः । स्नानीयं जलं समर्पयामि ।
(गङ्गाजल चढ़ाये ।)
स्नानाङ्ग
आचमन-स्नानान्ते आचमनीयं जलं समर्पयामि।
(जल चढ़ाये ।)
दुग्धस्नान
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानाय गृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । पयः स्नानं समर्पयामि ।
(गोदुग्धसे स्नान कराये ।)
दधिस्नान
पयसस्तु समुद्धृतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । दधिस्नानं समर्पयामि ।
(गोदधिसे स्नान कराये।)
घृतस्नान
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । घृतस्नानं समर्पयामि ।
(गोघृतसेस्नान कराये ।)
मधुस्नान
पुष्परेणुसमुत्पन्नं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । मधुस्नानं समर्पयामि ।
(मधुसे स्नान कराये । )
शर्करास्नान
इक्षुसारसमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बसदाशिवाय नमः । शर्करास्नानं समर्पयामि
(शक्करसे स्नान कराये ।)
पञ्चामृतस्नान
पयो दधि घृतं चैव मधु च शर्करान्वितम् ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । पञ्चामृतस्नानं समर्पयामि।
(अन्य पात्रमें पृथक् निर्मित पञ्चामृत से स्नान कराये।)
चन्दन
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । चन्दनानुलेपनं समर्पयामि।
(मलय चन्दन लगाये ।)
अक्षत
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ।
श्रीभगवते साम्बशिवाय नमः । अक्षतान् समर्पयामि ।
(कुङ्कुमयुक्त अक्षत चढ़ाये।)
पुष्पमाला
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः ।
मयाऽऽहृतानि पुष्पाणि गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नमः । पुष्पमालां समर्पयामि ।
(फूल एवं फूलमाला चढ़ाये ।)
बिल्वपत्र
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
श्रीभगवते साम्बशिवाय नमः । बिल्वपत्रं समर्पयामि ।
(बिल्वपत्र चढ़ाये ।)
दूर्वा
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥
श्रीभगवते साम्बशिवाय नमः । दुर्वाङ्कुरान् समर्पयामि।
(दूर्वाङ्कुर चढ़ाये।)
शमी
अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ।
दुःस्वप्ननाशिनीं धन्यामर्पयेऽहं शमीं शुभाम् ॥
श्रीभगवते साम्बशिवाय नमः । शमीपत्राणि समर्पयामि ।
(शमीपत्र चढ़ाये ।)
आभूषण
वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम्
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । रत्नाभूषणं समर्पयामि ।
(रत्नाभूषण समर्पित करे।)
परिमलद्रव्य
दिव्यगन्धसमायुक्तं नानापरिमलान्वितम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं स्वीकुरु शोभनम् ॥
श्रीभगवते साम्बशिवाय नमः । परिमलद्रव्याणि समर्पयामि
(परिमल द्रव्य चढ़ाये ।)
भगवान् के आगे चौकोर जलका घेरा डालकर उसमें नैवेद्यकी वस्तुओंको रख दे, इसके बाद धूप-दीप निवेदन करे।
धूप
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । धूपमाघ्रापयामि ।
(धूप दिखाये।)
दीप
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ॥
श्रीभगवते साम्बशिवाय नमः । दीपं दर्शयामि ।
(घृतदीप दिखाये, हाथ धो ले।)
नैवेद्य
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । नैवेद्यं निवेदयामि ।
(नैवेद्य निवेदित करे।)
आचमनीय
नैवेद्यान्ते ध्यानम् आचमनीयं जलं उत्तरापोऽशनं
हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ।
(जल चढ़ाये।)
ऋतुफल
इदं फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
श्रीभगवते साम्बशिवाय नमः । ऋतुफलं निवेदयामि ।
मध्ये आचमनीयं जलम् उत्तरापोऽशनं के च समर्पयामि ।
(ऋतुफल चढ़ाये) और आचमन तथा उत्तरापोऽशनके लिये जल दे।)
ताम्बूल
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्रीभगवते साम्बशिवाय नमः । ताम्बूलं समर्पयामि ।
(इलायची, लौंग, सुपारीके साथ पान समर्पित करे ।)
दक्षिणा
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
श्रीभगवते साम्बशिवाय नमः । दक्षिणां समर्पयामि ।
(दक्षिणा चढ़ाये ।)
आरती
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मां वरदो भव ॥
श्रीभगवते साम्बशिवाय नमः । आरार्तिक्यं समर्पयामि ।
(कर्पूरसे आरती करे और आरतीके बाद जल गिराये) ।
प्रदक्षिणा
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
श्रीभगवते साम्बशिवाय नमः । प्रदक्षिणां समर्पयामि ।
(प्रदक्षिणा करे ।)
मन्त्रपुष्पाञ्जलि
श्रद्धया सिक्तया भक्त्या हार्दप्रेम्णा समर्पितः ।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ।।
श्रीभगवते साम्बशिवाय नमः । मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि समर्पण करे ।)
नमस्कार
नमः सर्वहितार्थाय जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥
श्रीभगवते साम्बशिवाय नमः । नमस्कारान् समर्पयामि
(नमस्कार करे ।)
क्षमा-याचना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर !
यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥
श्रीभगवते साम्बशिवाय नमः । क्षमायाचनां समर्पयामि ।
(क्षमा-याचना करे ।)
अर्पण
ॐ तत्सद् ब्रह्मार्पणमस्तु ।
विष्णवे नमः, विष्णवे नमः, विष्णवे नमः ।
महत्वपूर्ण जानकारी
शिव पूजन के लिए आपको जो ऊपर मंत्र व विधि बताई है। उसी तरह से करे
(Step by Step)
|| समाप्त ||

